(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.129. अध्यायः 129
Mahabharata - Drona Parva - Chapter Topics
भीमेन कर्णपराजयो दुःशलवधश्च॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

धृतराष्ट्र उवाच। 7-129-0x(4591)(50334)
निनदन्तं तथा तं तु भीमसेनं महाबलम्।
मेघस्तनितनिर्घोषं के वीराः पर्यवारयन्॥ 7-129-1(50335)
न हि पश्याम्यहं तं वै त्रिषु लोकेषु कञ्चन।
क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे॥ 7-129-2(50336)
गदां युयुत्समानस्य कालस्येवेह सञ्चय।
न हि पश्याम्यहं युद्धे यस्तिष्ठेदग्रतः पुमान्॥ 7-129-3(50337)
रथं रथेन यो हन्यात्कुञ्जरं कुञ्चरेण च।
कस्तस्य समरे स्थाता साक्षादपि पुरन्दरः॥ 7-129-4(50338)
क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः।
दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः॥ 7-129-5(50339)
भीमसेनदवाग्नेस्तु मम पुत्रांस्तृणोलपम्।
प्रधक्ष्यतो रणमुखे केऽतिष्ठन्नग्रतो नराः॥ 7-129-6(50340)
काल्यमानांस्तु पुत्रान्मे दृष्ट्वा भीमस्य संयुगे।
कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन्॥ 7-129-7(50341)
न मेऽर्जुनाद्भयं तादृक्कृष्णान्नापि च सात्वतात्।
हुतभुग्जन्मनो नैव यादृग्भीमाद्भयं मम॥ 7-129-8(50342)
भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः।
के शूराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय॥ 7-129-9(50343)
सञ्चय उवाच। 7-129-10x(4592)
तथा तु नर्दमानं तं भीमसेनं महाबलम्।
तुमुलेनैव शब्देन कर्णोऽप्यभ्यद्रवद्बली॥ 7-129-10(50344)
व्याक्षिपन्सुमहच्चापमतिमात्रममर्षणः।
कर्णः सुयुद्धमाकाङ्क्षन्दर्शयिष्यन्बलं मृधे॥ 7-129-11(50345)
रुरोध मार्गं भीमस्य वातस्येव महीरुहः।
भीमोऽपि दृष्ट्वा सावेगं पुरो वैकर्तनं स्थितम्॥ 7-129-12(50346)
चुकोप बलवद्वीरश्चिक्षेपास्य शिलाशितान्।
तान्प्रत्यगृह्णात्कर्णोऽपि प्रतीपं प्रापयच्छरान्॥ 7-129-13(50347)
ततस्तु सर्वयोधानां यतनां प्रेक्षतां तदा।
प्रावेपन्निव गात्राणि कर्णभीमसमागमे॥ 7-129-14(50348)
रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम्।
भीमसेनस्य निनदं श्रुत्वा घोरं रणाजिरे॥ 7-129-15(50349)
खं च भूमिं च संरुद्धां मेनिरे क्षत्रियर्षभाः।
पुनर्घोरेण नादेन पाण्डवस्य महात्मनः॥ 7-129-16(50350)
समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ।
शस्त्राणि न्यपतन्दोर्भ्यः केषाञ्चिच्चासवोऽद्रवन्॥ 7-129-17(50351)
वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः।
वाहनानि च सर्वाणि बभूवुर्विमनांसि च॥ 7-129-18(50352)
प्रादुरासन्निमित्तानि घोराणि सुबहून्युत।
गृध्रकङ्कबलैश्चासीदन्तरिक्षं समावृतम्॥ 7-129-19(50353)
तस्मिन्सुतुमुले राजन्कर्णभीमसमागमे।
ततः कर्णस्तु विंशत्या शराणां भीममार्दयत्॥ 7-129-20(50354)
विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः।
प्रहस्य भीमसेनोऽपि कर्णं प्रत्याद्रवद्रणे॥ 7-129-21(50355)
सायकानां चतुः षष्ट्या क्षिप्रकारी महायशाः।
तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत्॥ 7-129-22(50356)
असम्प्राप्तांश्च तान्भीमः सायकैर्नतपर्वभिः।
चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम्॥ 7-129-23(50357)
तं कर्णश्चादयामास शरव्रातैरनेकशः।
सञ्छाद्यमानः कर्णेन बहुधा पाण़्डुनन्दनः॥ 7-129-24(50358)
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः।
विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः॥ 7-129-25(50359)
अथान्यद्धनुरादाय सञ्यं कृत्वा च सूतजः।
विव्याध समरे भीमं भीमकर्मा महारथः॥ 7-129-26(50360)
तस्य बीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः।
निचखानोरसि क्रुद्धः सूतपुत्रस्य वेगतः॥ 7-129-27(50361)
तैः कर्णोऽराजत शरैरुरोमध्यगतैः सदा।
महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ॥ 7-129-28(50362)
सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः।
धातुप्रस्यन्दिनः शैलाद्यथा गैरिकधातवः॥ 7-129-29(50363)
किञ्चिद्विचलितः कर्णः सुप्रहाराभिपीडितः।
आकर्णपूर्णमाकृष्य भीमं विव्याध सायकैः॥ 7-129-30(50364)
चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः।
स शरैरर्दितस्तेन कर्णेन दृढधन्विना।
धनुर्ज्यामच्छिनत्तूर्णं भीमस्तस्य क्षुरेण ह॥ 7-129-31(50365)
सारथिं चास्य भल्लेन रथनीडादपातयत्।
वाहांश्च चतुरस्तस्य व्यसूंश्चक्रे महारथः॥ 7-129-32(50366)
हताश्वात्तु रथात्कर्णः समाप्लुत्य विशाम्पते।
स्यन्दनं वृषसेनस्य तूर्णमापुप्लुवे भयात्॥ 7-129-33(50367)
निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान्।
ननाद बलवान्नादं पर्जन्यनिनदोपमम्॥ 7-129-34(50368)
तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः।
कर्णं पराजितं मत्वा भीमसेनेन संयुगे॥ 7-129-35(50369)
समन्ताच्छङ्खनिनदं पाण्डुसेनाऽकरोत्तदा।
शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यनदन्भृशम्॥ 7-129-36(50370)
स शङ्खबाणनिनदैर्हर्षाद्राजा स्ववाहिनीम्।
चक्रे युधिष्ठिरः सङ्ख्ये हर्षनादैश्च सङ्कुलाम्॥
गाण्डीवं व्याक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् 7-129-37(50371)
तमन्तर्धाय निनदं भीमस्य नदतो ध्वनिः।
अश्रूयत तदा राजन्सर्वसैन्येषु दारुणः॥ 7-129-38(50372)
ततो व्यायच्छतामस्त्रैः पृथक्पृथगजिह्मगैः।
मृदुपूर्वं तु राधेयो दृढपूर्वं तु पाण्डवः॥ 7-129-39(50373)
`भीमोऽपि च महाराज वैकर्तनमुपाद्रवत्।
आसुरे तु महासैन्ये तारकं पावकिर्यथा॥ 7-129-40(50374)
तयोरेवं महद्युद्धमभवद्भीमकर्णयोः।
तं भीमसेनो महता शरवर्षेण वारयन्॥ 7-129-41(50375)
विव्याध सारथिं चास्य हयांश्च चतुरः शरैः।
ध्वजं चास्य पताकां च भल्लैः सन्नतपर्वभिः।
रथं च चक्ररक्षौ च भीमश्चिच्छेद मारिष॥ 7-129-42(50376)
कर्णोऽपि रथिनां श्रेष्ठो भीमसेनेन कम्पितः।
खङ्गचर्मधरो राजन्भीममभ्यद्रवद्बली॥ 7-129-43(50377)
भीमश्चिच्छेद खङ्गं च चर्मणा सह मारिष॥ 7-129-44(50378)
दृष्ट्वा कर्णं च पार्थेन बाधितं बहुभिः शरैः।
दुर्योधनो महाराज दुश्शलं प्रत्यभाषत।
कर्णं कृच्छ्रगतं पश्य शीघ्रं यानं प्रयच्छह॥ 7-129-45(50379)
सञ्जय उवाच। 7-129-46x(4593)
एवमुक्तस्ततो राज्ञा दुश्शलः समुपाद्रवत्।
दुश्शलस्य रथं कर्णश्चारुरोह महारथः॥ 7-129-46(50380)
तौ पार्थः सहसा गत्वा विव्याध दशभिः शरैः।
पुनश्च कर्णं विद्ध्वाऽपि दुश्शलस्य शिरोऽहरत्॥ 7-129-47(50381)
दुश्शलं निहतं दृष्ट्वा भीमसेनेन मारिष।
तस्यैव धनुरादाय कर्णो विव्याध पाण्डवम्॥ 7-129-48(50382)
अन्योन्यं समरे वीरौ युयुधाते महाबलौ।
शत्रुघ्नौ शत्रुमध्ये तु बलवज्रभृताविव॥ 7-129-49(50383)
भीमो विद्धा हयांश्चैव सारथिं च पुनः पुनः।
कर्णमभ्यद्रवत्पार्थः प्रहसंश्च महाबलः॥ 7-129-50(50384)
ततो व्यायच्छमानस्य भीमसेनस्य संयुगे।
तत्सैन्यं कलिलीभूतं न प्राज्ञायत किञ्चन॥ ॥ 7-129-51(50385)

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकोनत्रिंशदधिकशततमोऽध्यायः॥ 129 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-129-1 युयुत्समानस्य व्यापारयतः॥ 5-129- सावेगं सत्वरम्॥ 5-129- संरुद्धामेकतामापन्नाम्॥ 5-129- व्यायच्छतां प्रहरताम्॥ 5-129- एकोनत्रिंशदधिकशततमोऽध्यायः॥ 129 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.